rigveda/10/85/30
ऋषिः - सूर्या सावित्री
देवता - वधूवासः संस्पर्शनिन्दा
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश॑ती । पा॒पया॑ । अ॒मु॒या । पतिः॑ । यत् । व॒ध्वः॑ । वास॑सा । स्वम् । अङ्ग॑म् । अ॒भि॒ऽधित्स॑ते ॥
अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया । पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभिऽधित्सते ॥