rigveda/10/84/7

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒: परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः । भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥

ऋषिः - मन्युस्तापसः

देवता - मन्युः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒: परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

स्वर सहित पद पाठ

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः । भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥


स्वर रहित मन्त्र

संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रव: पराजितासो अप नि लयन्ताम् ॥


स्वर रहित पद पाठ

सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः । भियम् । दधानाः । हृदयेषु । शत्रवः । पराऽजितासः । अप । नि । लयन्ताम् ॥