rigveda/10/83/4
ऋषिः - मन्युस्तापसः
देवता - मन्युः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
त्वम् । हि । म॒न्यो॒ इति॑ । अ॒भिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः । भामः॑ । अ॒भि॒मा॒ति॒ऽस॒हः । वि॒श्वऽच॑र्षणिः । सहु॑रिः । सहा॑वान् । अ॒स्मासु॑ । ओजः॑ । पृत॑नासु । धे॒हि॒ ॥
त्वम् । हि । मन्यो इति । अभिभूतिऽओजाः । स्वयम्ऽभूः । भामः । अभिमातिऽसहः । विश्वऽचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि ॥