rigveda/10/79/6

किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् । अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥

किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् । अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥

ऋषिः - अग्निः सौचीको, वैश्वानरो वा, सप्तिर्वा वाजम्भरः

देवता - अग्निः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् । अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥

स्वर सहित पद पाठ

किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् । अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥


स्वर रहित मन्त्र

किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् । अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥


स्वर रहित पद पाठ

किम् । देवेषु । त्यजः । एनः । चकर्थ । अग्ने । पृच्छामि । नु । त्वाम् । अविद्वान् । अक्रीळन् । क्रीळन् । हरिः । अत्तवे । अदन् । वि । पर्वऽशः । चकर्त । गाम्ऽइव । असिः ॥