rigveda/10/75/3

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ । अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टय॒: सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥

दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ । अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥

ऋषिः - सिन्धुक्षित्प्रैयमेधः

देवता - नद्यः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ । अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टय॒: सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥

स्वर सहित पद पाठ

दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ । अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥


स्वर रहित मन्त्र

दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना । अभ्रादिव प्र स्तनयन्ति वृष्टय: सिन्धुर्यदेति वृषभो न रोरुवत् ॥


स्वर रहित पद पाठ

दिवि । स्वनः । यतते । भूम्या । उपरि । अनन्तम् । शुष्मम् । उत् । इयर्ति । भानुना । अभ्रात्ऽइव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत् ॥