rigveda/10/75/1

प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥

प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥

ऋषिः - सिन्धुक्षित्प्रैयमेधः

देवता - नद्यः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥

स्वर सहित पद पाठ

प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥


स्वर रहित मन्त्र

प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः । प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥


स्वर रहित पद पाठ

प्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः । प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥