ऋषिः - अयास्यः

देवता - बृहस्पतिः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

PreviousNext
स्वर सहित मन्त्र

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृह॒स्पति॒ः स हि गोभि॒ः सो अश्वै॒ः स वी॒रेभि॒ः स नृभि॑र्नो॒ वयो॑ धात् ॥

स्वर सहित पद पाठ

इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति । बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥


स्वर रहित मन्त्र

इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥


स्वर रहित पद पाठ

इदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आऽनोनवीति । बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृऽभिः । नः । वयः । धात् ॥