rigveda/10/64/11

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभि॑: ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः । गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥

ऋषिः - गयः प्लातः

देवता - विश्वेदेवा:

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभि॑: ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

स्वर सहित पद पाठ

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः । गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥


स्वर रहित मन्त्र

रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः । गोभि: ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥


स्वर रहित पद पाठ

रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उपऽस्तुतिः । गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि ॥