rigveda/10/63/5

स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥

स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् । तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥

ऋषिः - गयः प्लातः

देवता - विश्वेदेवा:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥

स्वर सहित पद पाठ

स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् । तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥


स्वर रहित मन्त्र

सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् । ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये ॥


स्वर रहित पद पाठ

सम्ऽराजः । ये । सुऽवृधः । यज्ञम् । आऽययुः । अपरिऽह्वृताः । दधिरे । दिवि । क्षयम् । तान् । आ । विवास । नमसा । सुवृक्तिऽभिः । महः । आदित्यान् । अदितिम् । स्वस्तये ॥