rigveda/10/61/11

म॒क्षू क॒नाया॑: स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् । शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥

ऋषिः - नाभानेदिष्ठो मानवः

देवता - विश्वेदेवा:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

म॒क्षू क॒नाया॑: स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒: पय॑ उ॒स्रिया॑याः ॥

स्वर सहित पद पाठ

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् । शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥


स्वर रहित मन्त्र

मक्षू कनाया: सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् । शुचि यत्ते रेक्ण आयजन्त सबर्दुघाया: पय उस्रियायाः ॥


स्वर रहित पद पाठ

मक्षु । कनायाः । सख्यम् । नवीयः । राधः । न । रेतः । ऋतम् । इत् । तुरण्यन् । शुचि । यत् । ते । रेक्णः । आ । अयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥