rigveda/10/60/8
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - सुबन्धोर्जीविताह्वानम्
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
यथा॑ । यु॒गम् । व॒र॒त्रया॑ । नह्य॑न्ति । ध॒रुणा॑य । कम् । ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥
यथा । युगम् । वरत्रया । नह्यन्ति । धरुणाय । कम् । एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥