rigveda/10/60/3

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् । उ॒ताप॑वीरवान्यु॒धा ॥

यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् । उ॒त । अप॑वीरवान् । यु॒धा ॥

ऋषिः - बन्ध्वादयो गौपायनाः

देवता - असमाती राजा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् । उ॒ताप॑वीरवान्यु॒धा ॥

स्वर सहित पद पाठ

यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् । उ॒त । अप॑वीरवान् । यु॒धा ॥


स्वर रहित मन्त्र

यो जनान्महिषाँ इवातितस्थौ पवीरवान् । उतापवीरवान्युधा ॥


स्वर रहित पद पाठ

यः । जनान् । महिषान्ऽइव । अतिऽतस्थौ । पवीरवान् । उत । अपवीरवान् । युधा ॥