rigveda/10/60/11
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - सुबन्धोर्जीविताह्वानम्
छन्दः - स्वराडार्च्यनुष्टुप्
स्वरः - गान्धारः
न्य॑क् । वातः । अव॑ । वा॒ति॒ । न्य॑क् । त॒प॒ति॒ । सूर्यः॑ । नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य॑क् । भ॒व॒तु॒ । ते॒ । रपः॑ ॥
न्यक् । वातः । अव । वाति । न्यक् । तपति । सूर्यः । नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः ॥