rigveda/10/56/7
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - विश्वेदेवा:
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥
नावा । न । क्षोदः । प्रऽदिशः । पृथिव्याः । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा । स्वाम् । प्रऽजाम् । बृहत्ऽउक्थः । महिऽत्वा । अवरेषु । अदधात् । आ । परेषु ॥