rigveda/10/54/5

त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥

त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि । काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥

ऋषिः - वृहदुक्थो वामदेव्यः

देवता - इन्द्र:

छन्दः - पादनिचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥

स्वर सहित पद पाठ

त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि । काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥


स्वर रहित मन्त्र

त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि । काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥


स्वर रहित पद पाठ

त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि । कामम् । इत् । मे । मघऽवन् । मा । वि । तारीः । त्वम् । आऽज्ञाता । त्वम् । इन्द्र । असि । दाता ॥