rigveda/10/53/7

अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत । अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥

अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ । अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥

ऋषिः - देवाः

देवता - अग्निः सौचीकः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत । अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥

स्वर सहित पद पाठ

अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ । अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥


स्वर रहित मन्त्र

अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥


स्वर रहित पद पाठ

अक्षऽनहः । नह्यतन । उत । सोम्याः । इष्कृणुध्वम् । रशनाः । आ । उत । पिंशत । अष्टाऽवन्धुरम् । वहत । अभितः । रथम् । येन । देवासः । अनयन् । अभि । प्रियम् ॥