rigveda/10/48/8

अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् । यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥

अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् । यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥

ऋषिः - इन्द्रो वैकुण्ठः

देवता - इन्द्रो वैकुण्ठः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् । यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥

स्वर सहित पद पाठ

अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् । यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥


स्वर रहित मन्त्र

अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् । यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥


स्वर रहित पद पाठ

अहम् । गुङ्गुऽभ्यः । अतिथिऽग्वम् । इष्करम् । इषम् । न । वृत्रऽतुरम् । विक्षु । धारयम् । यत् । पर्णयऽघ्ने । उत । वा । करञ्जऽहे । प्र । अहम् । महे । वृत्रऽहत्ये । अशुश्रवि ॥