rigveda/10/48/11
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ । ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥
आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम । ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥