rigveda/10/46/3
ऋषिः - वत्सप्रिः
देवता - अग्निः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः । सः । शेवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥
इमम् । त्रितः । भूरि । अविन्दत् । इच्छन् । वैभुऽवसः । मूर्धनि । अघ्न्यायाः । सः । शेवृधः । जातः । आ । हर्म्येषु । नाभिः । युवा । भवति । रोचनस्य ॥