rigveda/10/37/8
ऋषिः - अभितपाः सौर्यः
देवता - सूर्यः
छन्दः - विराड्जगती
स्वरः - निषादः
महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ । आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥
महि । ज्योतिः । बिभ्रतम् । त्वा । विऽचक्षण । भास्वन्तम् । चक्षुषेऽचक्षुषे । मयः । आऽरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥