rigveda/10/36/9

स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः । ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः । ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

ऋषिः - लुशो धानाकः

देवता - विश्वेदेवा:

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः । ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

स्वर सहित पद पाठ

स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः । ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥


स्वर रहित मन्त्र

सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः । ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥


स्वर रहित पद पाठ

सनेम । तत् । सुऽसनिता । सनित्वऽभिः । वयम् । जीवाः । जीवऽपुत्राः । अनागसः । ब्रह्मऽद्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥