rigveda/10/35/6
ऋषिः - लुशो धानाकः
देवता - विश्वेदेवा:
छन्दः - विराड्जगती
स्वरः - निषादः
अ॒न॒मी॒वाः । उ॒षसः॑ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः॑ । जि॒ह॒ता॒म् । ज्योति॑षा । बृ॒हत् । अयु॑क्षाताम् । अ॒श्विना॑ । तूतु॑जिम् । रथ॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥
अनमीवाः । उषसः । आ । चरन्तु । नः । उत् । अग्नयः । जिहताम् । ज्योतिषा । बृहत् । अयुक्षाताम् । अश्विना । तूतुजिम् । रथम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥