rigveda/10/35/11
ऋषिः - लुशो धानाकः
देवता - विश्वेदेवा:
छन्दः - विराड्जगती
स्वरः - निषादः
ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता॑तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥
ते । आदित्याः । आ । गत । सर्वतातये । वृधे । नः । यज्ञम् । अवत । सऽजोषसः । बृहस्पतिम् । पूषणम् । अश्विना । भगम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥