rigveda/10/34/8

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒मि॒ ॥

ऋषिः - कवष ऐलूष अक्षो वा मौजवान्

देवता - अक्षकितवनिन्दा

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥

स्वर सहित पद पाठ

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒मि॒ ॥


स्वर रहित मन्त्र

त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा । उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥


स्वर रहित पद पाठ

त्रिऽपञ्चाशः । क्रीळति । व्रातः । एषाम् । देवःऽइव । सविता । सत्यऽधर्मा । उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोमि ॥