rigveda/10/27/19
ऋषिः - वसुक्र ऐन्द्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अप॑श्यम् । ग्रामम् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् । सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥
अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् । सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥