rigveda/10/27/15

स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते । नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्न॑: ॥

स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते । नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥

ऋषिः - वसुक्र ऐन्द्रः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते । नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्न॑: ॥

स्वर सहित पद पाठ

स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते । नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥


स्वर रहित मन्त्र

सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते । नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्न: ॥


स्वर रहित पद पाठ

सप्त । वीरासः । अधरात् । उत् । आयन् । अष्ट । उत्तरात्तात् । सम् । अजग्मिरन् । ते । नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥