rigveda/10/24/4
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् । वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥
युवम् । शक्रा । मायाऽविना । समीची इति सम्ऽईची । निः । अमन्थतम् । विऽमदेन । यत् । ईळिता । नासत्या । निःऽअमन्थतम् ॥