rigveda/10/21/7

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे । घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ । घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒कम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥

ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः

देवता - अग्निः

छन्दः - विराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे । घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥

स्वर सहित पद पाठ

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ । घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒कम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥


स्वर रहित मन्त्र

त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे । घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥


स्वर रहित पद पाठ

त्वाम् । यज्ञेषु । ऋत्विजम् । चारुम् । अग्ने । नि । सेदिरे । घृतऽप्रतीकम् । मनुषः । वि । वः । मदे । शुकम् । चेतिष्ठम् । अक्षऽभिः । विवक्षसे ॥