rigveda/10/19/7
ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः
देवता - आपो गावो वा
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
परि॑ । वः॒ । वि॒श्वतः॑ । द॒धे॒ । ऊ॒र्जा । घृ॒तेन॑ । पय॑सा । ये । दे॒वाः । के । च॒ । य॒ज्ञियाः॑ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥
परि । वः । विश्वतः । दधे । ऊर्जा । घृतेन । पयसा । ये । देवाः । के । च । यज्ञियाः । ते । रय्या । सम् । सृजन्तु । नः ॥