ऋषिः - वत्स आग्नेयः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

PreviousNext
स्वर सहित मन्त्र

यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ । स न॑ः पर्ष॒दति॒ द्विष॑ः ॥

स्वर सहित पद पाठ

यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥


स्वर रहित मन्त्र

यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा । स नः पर्षदति द्विषः ॥


स्वर रहित पद पाठ

यः । रक्षांसि । निऽजूर्वति । वृषा । शुक्रेण । शोचिषा । सः । नः । पर्षत् । अति । द्विषः ॥