rigveda/10/184/1
ऋषिः - त्वष्टा गर्भकर्त्ता विष्णुर्वा प्राजापत्यः
देवता - लिङ्गोत्ताः (गर्भार्थाशीः)
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
विष्णुः॑ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्वष्टा॑ । रू॒पाणि॑ । पिं॒श॒तु॒ । आ । सि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भ॑म् । द॒धा॒तु॒ । ते॒ ॥
विष्णुः । योनिम् । कल्पयतु । त्वष्टा । रूपाणि । पिंशतु । आ । सिञ्चतु । प्रजाऽपतिः । धाता । गर्भम् । दधातु । ते ॥