rigveda/10/17/9
ऋषिः - देवश्रवा यामायनः
देवता - सरस्वती
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः । स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥
सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः । सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥