rigveda/10/17/8
ऋषिः - देवश्रवा यामायनः
देवता - सरस्वती
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥
सरस्वति । या । सऽरथम् । ययाथ । स्वधाभिः । देवि । पितृऽभिः । मदन्ती । आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥