ऋषिः - देवश्रवा यामायनः

देवता - आपः

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

PreviousNext
स्वर सहित मन्त्र

पय॑स्वती॒रोष॑धय॒ः पय॑स्वन्माम॒कं वच॑ः । अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु॑न्धत ॥

स्वर सहित पद पाठ

पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ । अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥


स्वर रहित मन्त्र

पयस्वतीरोषधयः पयस्वन्मामकं वचः । अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥


स्वर रहित पद पाठ

पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः । अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥