rigveda/10/17/12
ऋषिः - देवश्रवा यामायनः
देवता - आपः सोमो वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् । अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥
यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् । अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥