rigveda/10/156/3

आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म् । अ॒ङ्धि खं व॒र्तया॑ प॒णिम् ॥

आ । अ॒ग्ने॒ । स्थू॒रम् । र॒यिम् । भ॒र॒ । पृ॒थुम् । गोऽम॑न्तम् । अ॒श्विन॑म् । अ॒ङ्धि । खम् । व॒र्तय॑ । प॒णिम् ॥

ऋषिः - केतुराग्नेयः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

आग्ने॑ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम॑न्तम॒श्विन॑म् । अ॒ङ्धि खं व॒र्तया॑ प॒णिम् ॥

स्वर सहित पद पाठ

आ । अ॒ग्ने॒ । स्थू॒रम् । र॒यिम् । भ॒र॒ । पृ॒थुम् । गोऽम॑न्तम् । अ॒श्विन॑म् । अ॒ङ्धि । खम् । व॒र्तय॑ । प॒णिम् ॥


स्वर रहित मन्त्र

आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् । अङ्धि खं वर्तया पणिम् ॥


स्वर रहित पद पाठ

आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोऽमन्तम् । अश्विनम् । अङ्धि । खम् । वर्तय । पणिम् ॥