rigveda/10/15/14
ऋषिः - शङ्खो यामायनः
देवता - पितरः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
ये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते । तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥
ये । अग्निऽदग्धाः । ये । अनग्निऽदग्धाः । मध्ये । दिवः । स्वधया । मादयन्ते । तेभिः । स्वऽराट् । असुऽनीतिम् । एताम् । यथाऽवशम् । तन्वम् । कल्पयस्व ॥