rigveda/10/15/11

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑:सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥

अग्नि॑ऽस्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ऽसदः । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒यः॒ । अ॒त्त । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । अथ॑ । र॒यिम् । सर्व॑ऽवीरम् । द॒धा॒त॒न॒ ॥

ऋषिः - शङ्खो यामायनः

देवता - पितरः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑:सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥

स्वर सहित पद पाठ

अग्नि॑ऽस्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ऽसदः । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒यः॒ । अ॒त्त । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । अथ॑ । र॒यिम् । सर्व॑ऽवीरम् । द॒धा॒त॒न॒ ॥


स्वर रहित मन्त्र

अग्निष्वात्ताः पितर एह गच्छत सद:सदः सदत सुप्रणीतयः । अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥


स्वर रहित पद पाठ

अग्निऽस्वात्ताः । पितरः । आ । इह । गच्छत । सदःऽसदः । सदत । सुऽप्रनीतयः । अत्त । हवींषि । प्रऽयतानि । बर्हिषि । अथ । रयिम् । सर्वऽवीरम् । दधातन ॥