rigveda/10/146/3
ऋषिः - देवमुनिरैरम्मदः
देवता - अरण्यानी
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव दृ॒श्य॒ते॒ । उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥
उत । गावःऽइव । अदन्ति । उत । वेश्मऽइव दृश्यते । उतो इति । अरण्यानिः । सायम् । शकटीःऽइव । सर्जति ॥