rigveda/10/143/5

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥

ऋषिः - अत्रिः साङ्ख्यः

देवता - अश्विनौ

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

स्वर सहित पद पाठ

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥


स्वर रहित मन्त्र

युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् । यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥


स्वर रहित पद पाठ

युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् । यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥