rigveda/10/136/6

अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् । के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥

ऋषिः - मुनयो वातरशनाः

देवता - केशिनः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥

स्वर सहित पद पाठ

अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् । के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥


स्वर रहित मन्त्र

अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् । केशी केतस्य विद्वान्त्सखा स्वादुर्मदिन्तमः ॥


स्वर रहित पद पाठ

अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् । केशी । केतस्य । विद्वान् । सखा । स्वादुः । मदिन्ऽतमः ॥