rigveda/10/132/2

ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षस॑: ॥

ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ । यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥

ऋषिः - शकपूतो नार्मेधः

देवता - मित्रावरुणौ

छन्दः - पादनिचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

ता वां॑ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता॑ यजामसि । यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या॑म र॒क्षस॑: ॥

स्वर सहित पद पाठ

ता । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । धा॒र॒यत्क्षि॑ती॒ इति॑ धा॒र॒यत्ऽक्षि॑ती । सु॒ऽसु॒म्ना । इ॒षि॒त॒त्वता॑ । य॒जा॒म॒सि॒ । यु॒वोः । क्रा॒णाय॑ । स॒ख्यैः । अ॒भि । स्या॒म॒ । र॒क्षसः॑ ॥


स्वर रहित मन्त्र

ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि । युवोः क्राणाय सख्यैरभि ष्याम रक्षस: ॥


स्वर रहित पद पाठ

ता । वाम् । मित्रावरुणा । धारयत्क्षिती इति धारयत्ऽक्षिती । सुऽसुम्ना । इषितत्वता । यजामसि । युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥