rigveda/10/126/6

नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा । अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विष॑: ॥

नेता॑रः । ऊँ॒ इति॑ । सु । नः॒ । ति॒रः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । राजा॑नः । च॒र्ष॒णी॒नाम् । अति॑ । द्विषः॑ ॥

ऋषिः - कुल्मलबर्हिषः शैलूषिः, अंहोभुग्वा वामदेव्यः

देवता - विश्वेदेवा:

छन्दः - निचृद्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा । अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विष॑: ॥

स्वर सहित पद पाठ

नेता॑रः । ऊँ॒ इति॑ । सु । नः॒ । ति॒रः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । राजा॑नः । च॒र्ष॒णी॒नाम् । अति॑ । द्विषः॑ ॥


स्वर रहित मन्त्र

नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा । अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विष: ॥


स्वर रहित पद पाठ

नेतारः । ऊँ इति । सु । नः । तिरः । वरुणः । मित्रः । अर्यमा । अति । विश्वानि । दुःऽइता । राजानः । चर्षणीनाम् । अति । द्विषः ॥