rigveda/10/120/8

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः । म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः । म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥

ऋषिः - बृहद्दिव आथर्वणः

देवता - इन्द्र:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः । म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

स्वर सहित पद पाठ

इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः । म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥


स्वर रहित मन्त्र

इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥


स्वर रहित पद पाठ

इमा । ब्रह्म । बृहत्ऽदिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वःऽसाः । महः । गोत्रस्य । क्षयति । स्वऽराजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥