rigveda/10/116/8

अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् । प्रय॑स्वन्त॒: प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑: ॥

अ॒द्धि । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ । चनः॑ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम॑म् । प्रय॑स्वन्तः । प्रति॑ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः॑ ॥

ऋषिः - अग्नियुतः स्थौरोऽग्नियूपो वा स्थौरः

देवता - इन्द्र:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् । प्रय॑स्वन्त॒: प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑: ॥

स्वर सहित पद पाठ

अ॒द्धि । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ । चनः॑ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम॑म् । प्रय॑स्वन्तः । प्रति॑ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः॑ ॥


स्वर रहित मन्त्र

अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । प्रयस्वन्त: प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामा: ॥


स्वर रहित पद पाठ

अद्धि । इन्द्र । प्रऽस्थिता । इमा । हवींषि । चनः । दधिष्व । पचता । उत । सोमम् । प्रयस्वन्तः । प्रति । हर्यामसि । त्वा । सत्याः । सन्तु । यजमानस्य । कामाः ॥