rigveda/10/115/5

स इद॒ग्निः कण्व॑तम॒: कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥

सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥

ऋषिः - उपस्तुतो वार्ष्टिहव्यः

देवता - अग्निः

छन्दः - भुरिगार्चीजगती

स्वरः - निषादः

स्वर सहित मन्त्र

स इद॒ग्निः कण्व॑तम॒: कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥

स्वर सहित पद पाठ

सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥


स्वर रहित मन्त्र

स इदग्निः कण्वतम: कण्वसखार्यः परस्यान्तरस्य तरुषः । अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥


स्वर रहित पद पाठ

सः । इत् । अग्निः । कण्वऽतमः । कण्वऽसखा । अर्यः । परस्य । अन्तरस्य । तरुषः । अग्निः । पातु । गृणतः । अग्निः । सूरीन् । अग्निः । ददातु । तेषाम् । अवः । नः ॥