rigveda/10/114/9

कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीर॒: को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥

कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ । कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥

ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीर॒: को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥

स्वर सहित पद पाठ

कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ । कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥


स्वर रहित मन्त्र

कश्छन्दसां योगमा वेद धीर: को धिष्ण्यां प्रति वाचं पपाद । कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥


स्वर रहित पद पाठ

कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद । कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥