rigveda/10/114/3
ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः
देवता - विश्वेदेवा:
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
चतुः॑ऽकपर्दा । यु॒व॒तिः । सु॒ऽपेशाः॑ । घृ॒तऽप्र॑तीका । व॒युना॑नि । व॒स्ते॒ । तस्या॑म् । सु॒ऽप॒र्णा । वृष॑णा । नि । से॒द॒तुः॒ । यत्र॑ । दे॒वाः । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥
चतुःऽकपर्दा । युवतिः । सुऽपेशाः । घृतऽप्रतीका । वयुनानि । वस्ते । तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥