rigveda/10/113/9
ऋषिः - शतप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - विराड्जगती
स्वरः - निषादः
भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ । इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥
भूरि । दक्षेभिः । वचनेभिः । ऋक्वऽभिः । सख्येभिः । सख्यानि । प्र । वोचत । इन्द्रः । धुनिम् । च । चुमुरिम् । च । दम्भयन् । श्रद्धाऽमनस्या । शृणुते । दभीतये ॥