rigveda/10/112/7
ऋषिः - नभःप्रभेदनो वैरूपः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते । अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥
वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हितऽप्रयसः । वृषभ । ह्वयन्ते । अस्माकम् । ते । मधुमत्ऽतमानि । इमा । भुवन् । सवना । तेषु । हर्य ॥